Loading data... On slow networks this could take a few minutes.
100%

प्रप्यते स्म गतचित्रकचित्रै-
श्चत्रमार्द्रनखलक्ष्मकपोलैः ।
दध्रिरेऽथ रभसच्युतपु-
ष्पाः स्वबिन्दुकुसुमान्यलकान्ताः ॥

मल्लिनाथः प्राप्यत इति ॥ गतानि विमर्दात्प्रमृष्टानि चित्रकचित्राणि तमालपत्ररचनानि येषां तैः कपोलैरार्द्रं यन्नखलक्ष्म तदेव चित्रमिति रूपकम् । प्राप्यते स्म प्राप्तम् । किं च रभसेन रतिसंभ्रमेण च्युतपुष्पा अलकान्ताश्चूर्णकुन्तलाग्राणि स्वेदबिन्दुनेव कुसुमानीति रूपकम् । दधिरे दधुः । धरतेर्भौवादिकाल्लिटि जित्त्वादात्मनेपदम् । स्वेदोऽत्र श्रमानुभवः । `श्रमः खेदोऽध्वरत्यादेः श्वासस्वेदातिभूमिकृत्
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
प्र प्य ते स्म चि त्र चि त्रै
श्च त्र मा र्द्र क्ष्म पो लैः
ध्रि रे ऽथ च्यु पु
ष्पाः स्व बि न्दु कु सु मा न्य का न्ताः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.