Loading data... On slow networks this could take a few minutes.
100%

ईदृशस्य भवतः खतमेत-
ल्लाघवं मुहुरतीव रतेषु ।
क्षिप्तमायतमदर्शयदुर्व्या
काञ्चिदाम जघनस्य महत्वम् ॥

मल्लिनाथः ईदृशस्येति ॥ रतेषु उर्व्यां क्षिप्तं रतिसंभ्रमात्पतितम् आयतं दीर्घभूतं काञ्चिदाम रसनागुणः कर्तृ ईदृशस्येति काञ्चिदाम्नः स्वायामदृष्टान्तेन जघनपरिमाणप्रदेशेनेत्थं महत्तरस्यातिमहतस्तव जघनस्य रतेषूपरिसुरतेषु मुहुः कथमेतल्लाघवं मुहुरुत्पतनपाटवं यस्येत्थमायतमहमपि एकवेष्टनपर्याप्तमिति भावः ।&#३२; इति जघनस्य महत्त्वदर्शनादिव । इत्थं विस्मितस्येति शेषः । गम्यमानार्थत्वादप्रयोगः । अत्रोर्व्यामायतत्वनिमित्तकाञ्चीदामकर्तृकं विस्मयपूर्वकजघनमहत्त्वदर्शनमुत्प्रेक्ष्यते
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
दृ स्य तः मे
ल्ला वं मु हु ती ते षु
क्षि प्त मा र्श दु र्व्या
का ञ्चि दा स्य त्वम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.