Loading data... On slow networks this could take a few minutes.
100%

उद्धतैर्निभृतमेक-
मनेकैश्छदवन्मृगदृशामविरामैः ।
श्रूयते स्म मणितं कल-
काञ्चीनूपुरध्वनिभिरक्षतमेव ॥

मल्लिनाथः उद्धतैरिति ॥ निभृतमनुद्धतम् । सूक्ष्ममित्यर्थः । एकमेकाकि छेदवद्विच्छेदयुक्तम् । मृगदृशां मणितं रतिकूजितं उद्धतैः स्थूलैरनेकैर्बहुभिरविरामैरविच्छेदैः कलैरव्यक्तमधुरैः काञ्चीनां नूपुराणां च धनिभिरक्षतमतिरस्कृतमेव श्रूयते स्म श्रुतम् । मणितस्य तिरोधायकशब्दान्तरसद्भावेऽपि ताद्रूप्यानापत्तेरतद्गुणालंकारः । `सति हेतावतद्रूपस्वीकारः स्यादतद्गुणः` इति लक्षणात्
छन्दः आर्यागीतिः []
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
द्ध तै र्नि भृ मे
ने कै श्छ न्मृ दृ शा वि रा मैः
श्रू ते स्म णि तं
का ञ्ची नू पु ध्व नि भि क्ष मे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.