बाहुपीडनकचगह-
णाभ्यामाहतेन नखदन्तनिपातैः ।
बोधितस्तनुशयतरु-
णीनामुन्मिमील विशदं विषमेषु ॥

मल्लिनाथः बाह्विति ॥ तरुणीनां तनौ शेते इति तनुशयस्तनुषु सुप्तः । `अधिकरणे शेतेः` (अष्टाध्यायी ३.२.१५ ) इत्यच् प्रत्ययः । विषमेषुः कामः बाहुपीडनं निर्दयाश्लेषः, कचग्रहणं केशाकर्षणं ताभ्यामाहतेन मुष्टिघातेन । नपुंसके भावे क्तः । नखानां दन्तानां च निपातैः क्षतैश्च बोधितः सन् विशदं निर्जाड्यं यथा तथा उन्मिमीलोद्बुद्धः । सर्वमेतत्कामस्योद्दीपकमासीदित्यर्थः । अत्र प्रकृतविषमेषुविशेषणसामर्थ्यादप्रस्तुतसुप्तप्रबुद्धपुरुषप्रतीतेः समासोक्तिरलंकारः । एवमेव प्रबोध्यते खलु निद्रालुरित्यलौकिके वस्तुनि लौकिकवस्तुव्यवहारसमारोपः
छन्दः आर्यागीतिः []
छन्दोविश्लेषणम्
१० ११ १२ १३
बा हु पी
णा भ्या मा ते न्त नि पा तैः
बो धि स्त नु रु
णी ना मु न्मि मी वि दं वि मे षु
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.