कान्तया सपदि कोऽप्युपगूढः
प्रौढपाणिरपनेतुमियेष ।
संहतस्तनतिरस्कृतदृष्टि-
र्भ्रष्टमेव न दुकूलमपश्यत् ॥

मल्लिनाथः कान्तयेति ॥ कान्तया सपदि वस्त्राकर्षणक्षण एवोपगूढ आश्लिष्टः कोऽपि युवा कामी प्रौढपाणिर्व्यग्रहस्तः सन् अपनेतुं दुकूलमाक्रष्टुमियेष । संहताभ्यां निरन्तरश्लिष्टाभ्यां स्तनाभ्यां तिरस्कृतदृष्टिस्तिरोहिताक्षः सन् भ्रष्टमेव प्रागेव&#३२; स्त्रस्तं दुकूलं नापश्यत् । अत्र दृष्टितिरस्कारस्य विशेषणगत्या अदर्शनहेतुकत्वात्पदार्थहेतुकं काव्यलिङ्गम् । तच्च दृष्टेः स्तनतिरस्कारासंबन्धेऽपि संबन्धरूपातिशयोक्त्युत्थापितमिति संकरः । तेन च कुचयोर्लोकोत्तरसौन्दर्यं व्यज्यत इत्यलंकारेण वस्तुध्वनिः
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
का न्त या दि को ऽप्यु गू ढः
प्रौ पा णि ने तु मि ये
सं स्त ति स्कृ दृ ष्टि
र्भ्र ष्ट मे दु कू श्यत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.