अन्यकालपरिहार्यमजस्रं
तद्द्वयेन विदधे द्वयमेव ।
धृष्टता रहसि भर्तृषु ताभि-
र्निर्दयत्वमितरैरबलासु ॥

मल्लिनाथः अन्येति ॥ अजस्रं नित्यमन्यकालपरिहार्यं सुरतेतरकाले तु त्याज्यं तद्द्वयं कर्म द्वयेन कर्त्रा विदधे विहितमेव । धाञः कर्मणि लिट् । एतदेव व्यनक्ति । रहसि ताभिरबलाभिर्भर्तृषु विषये धृष्टता विदधे । इतरैर्भर्तृभिरबलासु स्त्रीषु निर्दयत्वं च विदधे । अन्यदा यथा पुंसां स्त्रीषु दया तासां तेष्वप्रागल्भ्यमलंकारस्तद्वत् सुरतेषु तद्विरुद्धमेवालंकार इति भावः । अत्र स्त्रीपुंसधार्ष्ट्यनिर्दयत्वयोः प्रकृतयोर्विधानक्रियायोगपद्यं गम्यत इति तुल्ययोगिताभेदः
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
न्य का रि हा र्य स्रं
द्द्व ये वि धे द्व मे
धृ ष्ट ता सि र्तृ षु ता भि
र्नि र्द त्व मि रै ला सु
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.