Loading data... On slow networks this could take a few minutes.
100%

वारणार्थपदगद्गद-
वाचामीर्ष्यया मुहुरपत्रपया च ।
कुर्वते स्म सुदृशाम-
नुकूलं प्रतिकूलिकतयैव युवानः ॥

मल्लिनाथः वारणार्थेति ॥ ईर्ष्य॑या अतिपीडनासहिष्णुतया, अपत्रपया च रहस्यप्रकाशनवैलक्ष्येण च मुहुर्वारणार्थपदेषु मा मेत्यादिनिषेधवाचकशब्दप्रयोगेषु गद्गदवाचा स्खलद्गिरां सुदृशां प्रतिकूलं वर्तन्त इति प्रातिकूलिकाः प्रतिकूलचारिणः । `तत्प्रत्यनुपूर्वमीपलोमकूलम्` (अष्टाध्यायी ४.४.२८ ) इति ठक् । तत्तया प्रातिकूलिकतयैव प्रतिकूलाचरणेनैव युवानोऽनुकूलमिष्टं कुर्वते स्म । कृत्रिमनिवारणाद्यत्प्रतिकूलमिवाचरितमधरपीडनादिकं तत्तासामिष्टत्वादनुकूलसेवेति । प्रतिकूलाचरणमेवानुकूलं भवतीत्यर्थः । अत एव प्रतिकूलमप्यनुकूलमिति विरोधाभासोऽलंकारः
छन्दः आर्यागीतिः []
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
वा णा र्थ द्ग
वा चा मी र्ष्य या मु हु त्र या
कु र्व ते स्म सु दृ शा
नु कू लं प्र ति कू लि यै यु वा नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.