Loading data... On slow networks this could take a few minutes.
100%

चक्रुरेव ललनोरुषु राजीः
स्पर्शलोभवशलोलकराणाम् ।
कामिनामनिभृतान्यपि रम्भा-
स्त म्भकोमलतलेषु नखानि ॥

मल्लिनाथः चक्रुरेवेति ॥ स्पर्शलोभवशेनोरुस्पर्शतृष्णापारतत्र्येण लोलकराणां चपलपाणीनां कामिनामनिभृतान्यनर्पितान्यपि नखानि कररुहाः । `पुनर्भवः कररुहो&#३२; नखोऽस्त्री नखरोऽस्त्रियाम्` इत्यमरः । रम्भास्तम्भकोमलतलेषु कदलीप्रकाण्डपेलवस्वरूपेषु ललनानामूरुषु राजीः रेखाश्चक्रुरेव । ऊरुपरामर्शानान्तरीयकनखस्पर्शमात्रादेव रेखा जाता इत्यर्थः । अत्र कोमलतायाः विशेषणगत्या राजीकरणहेतुत्वाकाव्यलिङ्गभेदः
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
क्रु रे नो रु षु रा जीः
स्प र्श लो लो रा णाम्
का मि ना नि भृ ता न्य पि म्भा
स्त म्भ को ले षु खा नि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.