ऊरुमूलचपलेक्षणमघ्न-
न्यैर्वतंसकुसुमैः प्रियमेताः ।
चक्रिरे सपदि तानि यथार्थ
मन्मथस्य कुसुमायुधनाम ॥

मल्लिनाथः ऊर्विति ॥ एताः स्त्रिय ऊरूमूले चपलेक्षणं लोलचक्षुषं प्रियं यैः वतंसकुसुमैः कर्णावतंसपुष्पैः । `वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः` इत्यकारलोपः । अघ्नन् अताडयन् । हन्तेर्लङ् । `गमहन-` (अष्टाध्यायी ६.४.९८ ) इत्यादिना उपधालोपः । `हो हन्तेः-` (अष्टाध्यायी ७.३.५४ ) इति कुत्वम् । तानि वतंसकुसुमानि सपदि मनो मथ्नातीति मन्मथः । पृषोदरादित्वात्साधुः । तस्य मन्मथस्य कुसुममायुधं यस्येति कुसुमायुध इति यन्नाम तद्यथार्थं चक्रिरे चक्रुः । तदा तेषां तत्कार्यकारित्वादिति भावः । अत्र वतंसेष्वारोप्यमाणस्य मन्मथायुधत्वस्य प्रकृतोपयोगात् परिणामालंकारः
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
रु मू ले क्ष घ्न
न्यै र्व तं कु सु मैः प्रि मे ताः
क्रि रे दि ता नि था र्थ
न्म स्य कु सु मा यु ना
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.