Loading data... On slow networks this could take a few minutes.
100%

आयताङ्गुलिरभूदतिरिक्तः
सुभ्रुवां क्रशिमशालिनि मध्ये ।
श्रोणिषु प्रियकरः पृथुलासु
स्पर्शमाप सकलेन तलेन ॥

मल्लिनाथः आयतेति ॥ आयता अङ्गुलयो यस्य स प्रियकरः । कृशस्य भावः क्रशिमा कार्श्यम् । `पृथ्वादिभ्य इमनिच्` (अष्टाध्यायी ५.१.१२२ ) र ऋतो हलादेर्लघोः` (अष्टाध्यायी ६.४.१६१ ) इति रेफादेशः । तेन शालते शोभते तस्मिन् सुभ्रुवां मध्येऽतिरिक्तोऽधिकोऽभूत् । मध्यस्यातिकार्यादस्पृष्टैकदेशोऽभूदित्यर्थः । पृथुलासु श्रोणिषु कटिषु । `वहिश्रिश्रुयुद्रुग्ला-` इति सूत्रेण श्रुधातोर्निप्रत्ययः । सकलेन कृत्स्नेण तलेन स्पर्शमाप । अन्तर्भागेन क्रमेण श्रोणिमस्पृशदित्यर्थः । अत एव मध्यातिरेकोक्तेरतिशयोक्तिः
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
ता ङ्गु लि भू ति रि क्तः
सु भ्रु वां क्र शि शा लि नि ध्ये
श्रो णि षु प्रि रः पृ थु ला सु
स्प र्श मा ले ले
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.