आशु लङ्घितवतीष्टकराग्रे
नीवीमर्धमुकुलीकृतदृष्ट्या ।
रक्तवैणिक हताधरतन्त्री-
मण्डलक्वणितचारु चुकूजे ॥

मल्लिनाथः आश्विति ॥ इष्टस्य प्रियस्य कराग्रे नीविं वस्त्रग्रन्थिमाशु हठाल्लङ्घितवत्यतिक्रान्तवति । ऊरुमूलं गते सतीत्यर्थः । अर्धमुकुलीकृतदृष्ट्या सुखपारवश्यादर्धनिमीलिताक्ष्या स्त्रिया रक्तो रक्तकण्ठः स्वयं गानकुशलः । वीणा शिल्पमस्य वैणिको वीणावाद्यनिपुणः । `शिल्पम्` (अष्टाध्यायी ४.४.५५ ) इति ठक् । रक्तेन वैणिकेन यन्त्रगानकुशलेन हतं वादितं यदधरं तन्त्रीणां मण्डलं समूहः बहुतन्त्रीकस्वरमण्डलादिभेदस्तस्य क्वणितमिव चारु यथा तथा चुकूजे कूजितम् । भावे लिट् । अधरग्रहणतन्त्रीमाधुर्यातिशयात् । स्पर्शसुखातिरेकार्थं तन्त्रीकण्ठस्वरव्यतिकरमनोहरः कोऽपि रससर्वस्वभूतः कण्ठकूजितविशेषः कृत इत्यर्थः । अत एव रक्तवैणिकहतेति विशेषणम् । क्वणितचार्वित्युपमालंकारः
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
शु ङ्घि ती ष्ट रा ग्रे
नी वी र्ध मु कु ली कृ दृ ष्ट्या
क्त वै णि ता न्त्री
ण्ड क्व णि चा रु चु कू जे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.