Loading data... On slow networks this could take a few minutes.
100%

कामिनः कृतरतोत्सवकाल-
क्षेपमाकुलवधूकरसङ्गि ।
मेखलागुणविलग्नमसूयां
दीर्घसूत्रमकरोत्परिधानम् ॥

मल्लिनाथः कामिन इति ॥ आकुले प्रियकरनिवारणव्यग्रे वधूकरे सङ्गि सक्तं मेखलैव गुणस्तत्र विलग्नं दीर्घसूत्रं आतततन्तुकम् । अत्यायतत्वाद्बहुधा वेष्टितमित्यर्थः । चिरक्रियं च । `दीर्घसूत्रश्चिरक्रियः` इत्यमरः । एवं कृतो रतस्यैवोत्सवस्य कालक्षेपः कालविलम्बो येन तत्परिधानमधोंशुकं कामिनोऽसूयामकरोत् । इच्छाविघातादीर्ष्यां जनयामासेत्यर्थः । अत्र करसङ्गादिपदार्थानां विशेषणगत्याऽसूयाहैतुत्वादनेकपदार्थहेतुकं काव्यलिङ्गमलंकारः
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
का मि नः कृ तो त्स का
क्षे मा कु धू ङ्गि
मे ला गु वि ग्न सू यां
दी र्घ सू त्र रो त्प रि धा नम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.