Loading data... On slow networks this could take a few minutes.
100%

प्राप्य नाभिनदमज्जनमाशु
प्रस्थितं निवसनग्रहणाय ।
औपनीविकमरुन्ध किल स्त्री
वल्लभस्य करमात्मकराभ्याम् ॥

मल्लिनाथः प्राप्येति ॥ नाभिरेव नदो ह्रद इति रूपकं तत्र मज्जनं प्राप्याशु निवसनग्रहणाय । वस्त्राकर्षणायेत्यर्थः । स्नातस्य वस्त्रग्रहणं युक्तमिति भावः । प्रस्थितं प्रवृत्तम् । उपनीवि नीविसमीपे प्रायेण तत्र भवमोपनीविकम् । तत्र व्यापृतमित्यर्थः । `उपजानूपकर्णोपनीवेष्ठक्` (अष्टाध्यायी ४.३.४० ) इति ठक् । वल्लभस्य करं स्त्री आत्मकराभ्यामरुन्ध किल । रोधं नाटितवतीत्यर्थः
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
प्रा प्य ना भि ज्ज मा शु
प्र स्थि तं नि ग्र णा
नी वि रु न्ध कि स्त्री
ल्ल स्य मा त्म रा भ्याम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.