आमृशद्भिरभितो वलिवीचि-
र्लोलमानवितताङ्गुलिहस्तैः ।
सुभ्रुवामनुभवात्प्रतिपेदे
मुष्टिमेयमिति मघ्यमभीष्टैः ॥

मल्लिनाथः आमृशद्भिरिति ॥ वलयो वीचय इव वलिवीचीरभित आमृशद्भिः लोलमानाश्चलनशीलाः । `ताच्छील्यवयोवचनशक्तिषु चानश्` (अष्टाध्यायी ३.२.१२९ ) इति चानश् प्रत्ययः । न तु शानच् । लोलतेः परस्मैपदित्वात् । अत एव `लोलमानादयश्चानशि` इति वामनः । लोलमाना वितताः प्रसारिताश्चाङ्गुलयो येषां ते तथा विधा हस्ता येषां तैरभीष्टैः प्रियतमैः सुभ्रुवां मध्यं मुष्टिमेयमिति मुष्ट्या मातुं शक्यमित्यनुभवात्प्रत्यक्षेण मुष्ट्या मानं कृत्वैव प्रतिपेदे प्रतिबुद्धं न तु प्रसिद्धिमात्रादिति भावः । अमुष्टिमेयस्य मुष्टिमेयत्वोक्तेरतिशयोक्तिभेदोऽलंकारः
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
मृ द्भि भि तो लि वी चि
र्लो मा वि ता ङ्गु लि स्तैः
सु भ्रु वा नु वा त्प्र ति पे दे
मु ष्टि मे मि ति घ्य भी ष्टैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.