Loading data... On slow networks this could take a few minutes.
100%

सोष्मणः स्तनशिलाशिखराग्रा-
दात्तघर्मसलिलैस्तरुणानाम् ।
उच्छ्वसत्कमलचारुषु हस्तै-
निम्ननाभिसरसीषु निपेते ॥

मल्लिनाथः सोष्मण इति ॥ सोष्मणो यौवनोष्मयुक्तात् स्तनावेव शिलाशिखरे तयोरग्रादुपरिभागादात्तघर्मसलिलैरुष्णदेशविहारात् प्राप्तस्वेदैः तरुणानां हस्तैरुच्छ्वसत्कमलवद्विकचकमलैश्च चारुषु निम्ननाभिष्वेव सरसीषु निपेते निपतितम् । ऊष्मस्विन्नानां कुतश्चिदुन्नतात्पयसि पातो युक्त इति भावः । प्रथमं कुचौ स्पृष्ट्वा ततो नाभिदेशमस्पृशन्नित्यर्थः । अत्र कुचयोः शिलाशिखरत्वेन नाभीनां सरसीत्वेन च रूपणाद्धस्तानामापातिपुरुषत्वरूपणं गम्यत इत्येकदेशविवर्ति रूपकम्
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
सो ष्म णः स्त शि ला शि रा ग्रा
दा त्त र्म लि लै स्त रु णा नाम्
च्छ्व त्क चा रु षु स्तै
नि म्न ना भि सी षु नि पे ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.