रेचितं परिजनेन महीयः
केवलाभिरतदम्पति धाम ।
साम्यमाप कमलासखविष्व-
क्सेनसेवितयुगान्तपयोधेः ॥

मल्लिनाथः रेचितमित्यादि ॥ परिजनेन रेचितं रिक्तीकृतम् । अत एव केवलावेकाकिनावभिरतौ दंपती जायापती यस्मिंस्तत् । `दंपती जंपती जायापती भार्यापती च तौ` इत्यमरः । राजदन्तादिषु जायाशब्दस्य जंभावो दंभावश्च विकल्पान्निपा तितः । महीयो महत्तरं धाम केलिगृहं कमलासखेन लक्ष्मीभर्त्रा विष्वक्सेनेन जनार्दनेन विष्णुना सेवितस्याधिष्ठितस्य युगान्तपयोधेः साम्यमाप इत्युपमालंकारः । युगान्तविशेषणं विविक्तताद्योतनार्थम् । एतेनेच्छाविहारतोक्ता
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
रे चि तं रि ने ही यः
के ला भि म्प ति धा
सा म्य मा ला वि ष्व
क्से से वि यु गा न्त यो धेः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.