केनचितन्मधुरमुल्ब-
णरागं बाष्पतप्तमधिकं विरहेषु ।
ओष्ठपल्लवमवाप्य
मुहूर्त सुभ्रुवः सरसमक्षि चुचुम्बे ॥

मल्लिनाथः केनचिदिति ॥ केनचिद्रागिणा मधुरं रसवन्तमुल्बणरागमतिरक्तं तथापि विरहेष्वधिकं बाष्पेण विरहोष्मणा तप्तं सुभ्रुव ओष्ठपल्लवमपास्य सरसं सान्द्रशीतमक्षि चुचुम्बे चुम्बितम् । अत्र तप्तत्वरसवत्त्वयोर्विशेषणगत्याधरत्यागाक्षिचुम्बनहेतुकं काव्यलिङ्गद्वयं सापेक्षत्वात्संकीर्यते
छन्दः आर्यागीतिः []
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
के चि न्म धु मु ल्ब
रा गं बा ष्प प्त धि कं वि हे षु
ष्ठ ल्ल वा प्य
मु हू र्त सु भ्रु वः क्षि चु चु म्बे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.