Loading data... On slow networks this could take a few minutes.
100%

आवृतान्यपि निरन्तरमुच्चै-
र्योषितामुरसिजद्वतयेन ।
रागिणामित इतो विमृशद्भिः
पाणिभिर्जगृहिरे हृदयानि ॥

मल्लिनाथः आवृतानीति ॥ उच्चैरुन्नतेनोरसिजद्वितयेन निरन्तरं नीरन्ध्रमावृतानि संवृतान्यपि योषितां हृदयानि वक्षांसि, चेतांसि च इत इतो विमृशद्भिरितस्ततः परामृशद्भिः रागिणां पाणिभिर्जगृहिरे गृहीतानि । निगूढं वस्तु हस्तपरामर्शाल्लभ्यत इति एकत्र भावः, अन्यत्र कृच्छ्रलब्धः प्रियकरस्पर्शस्तासां हृदयग्राह्योऽभूदिति भावः । नैरन्तर्येण प्रतिबध्नतोरपि कुचयोः कथंचिदन्तरं संपाद्य हृदयानि स्पृष्टान्येवेति वाक्यार्थः । अत्र द्वितयानामपि हृदयानां प्रकृतत्वात्केवलप्रकृतश्लेषः
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
वृ ता न्य पि नि न्त मु च्चै
र्यो षि ता मु सि द्व ये
रा गि णा मि तो वि मृ द्भिः
पा णि भि र्ज गृ हि रे हृ या नि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.