मल्लिनाथः
पल्लवेति ॥ पल्लवेनोपमित्या सादृश्येन यत्साम्यं तेन सपक्षं उभयोरपि पल्लवैकोपमानत्वसाधर्म्यात्सुहृद्भूतमधरो बिम्बमिव तदधरबिम्बमभीष्टे प्रियतमे दष्टवति सति । सह रुजा सरुक् । `तेन सह-` (अष्टाध्यायी २.२.२८ ) इति बहुव्रीहिः । सहस्य सः । तेन सरुजेव सव्यथेनेव । `स्त्री रुग्रुजा चोपताप` इत्यमरः । ताराण्युच्चैः क्रोशन्ति । कुतः । लोलानि चलानि वलयानि कङ्कणानि यस्य तेन तरुण्याः करेण पर्यकूजि परिकूजितम् । भावे लुङ् । सुहृद्दुःखाद्दुःखायन्ते सुहृद इति भावः । अत्र कङ्कणद्वारकस्य करकूजनस्य विधूननहेतुकस्य सरुजेवेति रुग्घेतुकत्वमुत्प्रेक्ष्यते
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.