ह्रीभरादवनतं परिरम्भे
रागवानवटुजेष्ववकृष्य ।
अर्पितोष्ठदलमाननपद्मं
योषितो मुकुलिताक्षमधासीत् ॥

मल्लिनाथः ह्रीति ॥ परिरम्भे आलिङ्गने ह्रीरेव भरस्तस्मादवनतम् । भाराक्रान्तं नमतीति भावः । अर्पितं स्वमुखे निहितमोष्ठ एव दलं पत्रं यस्य तद्योषित आननमेव पद्मं रागवान् रागी अवटुजेषु चरमशिरोरुहेषु । `अवटुर्घाटा कृकाटिका` इत्यमरः । अवकृष्य । अवटुजाकर्षणेनोन्नमय्येत्यर्थः । मुकुलिताक्षं निमीलितनेत्रं यथा तथा । `बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्पच्` (अष्टाध्यायी ५.४.११३ ) इति पच् प्रत्ययः । अधासीत् पपौ । धेटो लुङ् `आदेच-` (अष्टाध्यायी ६.१.४५ ) इत्यात्त्वम् । `विभाषा घ्राधेट्-` (२।४|८७) इति सिचो वैकल्पिके लुगभावे `अस्तिसिचोऽपृक्ते` (७|३।९६) इतीडागमः । अत्राननोष्ठस्य पद्मदलत्वरूपणात्तत्रानुरागिणो मधुपत्वं च गम्यत इत्येकदेशविवर्ति रूपकम्
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
ह्री रा तं रि म्भे
रा वा टु जे ष्व कृ ष्य
र्पि तो ष्ठ मा द्मं
यो षि तो मु कु लि ता क्ष धा सीत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.