यत्प्रियव्यतिकराद्वनितान-
मङ्गजेन पुलकेन बभूवे ।
प्रापि तेन भृशमुच्छ्वसिभि-
र्नीविभिः सपदि बन्धनमोक्षः ॥

मल्लिनाथः यदिति ॥ वनितानां स्त्रीणां प्रियस्य भर्तुः व्यतिकरात्संपर्कात् संगमाच्चाङ्गजेनाङ्गव्यापिना पुत्रेण च पुलकेन बभूवे भूतमिति यत् । भावे लिट् । तेन पुलकोदयेन पुत्रोदयेन च भृशमुच्छसिताभिरुच्छिन्नाभिर्मोक्षाशया आश्वसिताभिश्च नीविभिः लक्षणया कटिवस्त्रैः अन्यथा बन्धनशब्देन पौनरुक्त्यात् । सपदि बन्धनमोक्षो ग्रन्थिभेदो निगडमोचनं च प्रापि प्राप्तः । कर्मणि लुङ् । अभ्युदयेषु राजानो बद्धान् मोचयन्तीति भावः । अत्र प्रकृतपुलकनीविगताङ्गजत्वोच्छ्वसितत्वादिविशेषणसाम्यावन्धनमोक्षणसंबन्धाच्च अप्रकृतपुत्रकारागतिप्रतीतेः समासोक्तिरलंकारः
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
त्प्रि व्य ति रा द्व नि ता
ङ्ग जे पु के भू वे
प्रा पि ते भृ मु च्छ्व सि भि
र्नी वि भिः दि न्ध मो क्षः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.