Loading data... On slow networks this could take a few minutes.
100%

अजस्रमास्फालितवल्लकीगुण-
क्षतोज्वलाङ्गुष्ठनखांशुभिन्नया ।
पुरः प्रवालैरिव पूरितार्धया
विभान्तमच्छस्फटिकाक्षमालया ॥

मल्लिनाथः अजस्रमिति ॥ पुनरजस्रं प्राचुर्येणास्फालितास्ताडिताः । सौष्ठवपरीक्षार्थ न्युब्जाङ्गुष्ठेन तन्त्रीताडनं प्रसिद्धम् । तेषां वल्लकीगुणानां वीणातन्त्रीणां क्षतेन संघर्षणेनोज्वलैरङ्गुष्टनखांशुभिर्भिन्नया मिश्रया । तद्रागरक्तयेत्यर्थः । अत एव पुरः पुरोभागे प्रवालैर्विद्रुमैः। `-अथ विद्रुमः पुंसि प्रवालं पुंनपुंसकम्` इत्यमरः । पूरितार्धयेव स्थितया अच्छस्फटिकाक्षमालया स्वच्छस्फटिकानां मालया । जपमालयेत्यर्थः । `अच्छो भल्लूके स्फटिकेऽमलेच्छाभिमुखेऽव्ययम्` इति हेमचन्द्रः । तथा प्रसिद्धस्फटिकग्रहणादृषेर्मोक्षार्थित्वं व्यज्यते । `स्फटिको मोक्षदः परम्` इति मोक्षार्थिनां स्फटिकाक्षमालाभिधानात् । विभान्तं भासमानम् । भातेः शतृप्रत्ययः । अत्र नखांशुभिन्नयेति स्वगुणत्यागेनान्यगुणस्वीकारलक्षणस्तद्गुणालंकार उक्तः । `तद्गुणः स्वगुणत्यागात्` इति
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
स्र मा स्फा लि ल्ल की गु
क्ष तो ज्व ला ङ्गु ष्ठ खां शु भि न्न या
पु रः प्र वा लै रि पू रि ता र्ध या
वि भा न्त च्छ स्फ टि का क्ष मा या
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.