Loading data... On slow networks this could take a few minutes.
100%

निसर्गचित्रोज्वलसूक्ष्मपक्ष्मणा
लसद्बिसच्छेदसिताङ्गसङ्गिना ।
चकासतं चारुचमूरुचर्मणा
कुथेन नागेन्द्रमिवेन्द्रवाहनम् ॥

मल्लिनाथः निसर्गेति ॥ पुनः निसर्गात्स्वभावादेव चित्राणि शबलान्युज्वलानि भास्वराणि सूक्ष्माणि पक्ष्माणि लोमानि यस्य तेन लसन् यो बिसच्छेदो मृणालखण्डः । `छेदः खण्डोऽस्त्रियाम्` इति त्रिकाण्डशेषः । तद्वत्सितेऽङ्गे वपुषि सङ्गिना सक्तेन चारुणा मनोहरेण चमूरुचर्मणा मृगत्वचा कुथेन पृष्ठास्तरणेन । `प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः` इत्यमरः । इन्द्रवाहनं नागेन्द्रमैरावतमिव चकासतं शोभमानम् । इन्द्रस्य वाहनमिति स्वस्वामिभावमात्रस्य विवक्षितत्वात् `वाहनमाहितात्` (अष्टाध्यायी ८.४.८ ) इति न णत्वम् । यथाह वामनः -`नेन्द्रवाहनशब्दे णत्वमाहितत्वस्याविवक्षितत्वात्` इति । चकासतेः शतरि `नाभ्यस्ताच्छतुः` (अष्टाध्यायी ७.१.७८ ) इति नुमभावः । `जक्षित्यादयः षट्` (अष्टाध्यायी ६.१.६ ) इत्यभ्यस्तसंज्ञा
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
नि र्ग चि त्रो ज्व सू क्ष्म क्ष्म णा
द्बि च्छे सि ता ङ्ग ङ्गि ना
का तं चा रु मू रु र्म णा
कु थे ना गे न्द्र मि वे न्द्र वा नम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.