Loading data... On slow networks this could take a few minutes.
100%

रणद्भिराघट्टनया नभस्वतः
पृथग्विभिन्नश्रुतिमण्डलैः स्वरैः ।
स्फुटीभवद्ग्रामविशेषमूर्च्छना-
मवेक्षमाणं महतीं मुहुर्मुहुः ॥

मल्लिनाथः रणद्भिरिति ॥ पुनः नभस्वतो वायोराघट्टनया आघातेन पृथगसंकीर्ण रणद्भिर्ध्वनद्भिः । अनुरणनोत्पद्यमानैरित्यर्थः । `श्रुत्यारब्धमनुरणनं स्वरः` इति लक्षणात् । तदुक्तं रत्नाकरे—`श्रुत्यनन्तरभावी यः स्निग्धोऽनुरणनात्मकः । स्वनो रञ्जयति श्रोतुश्चित्तं स स्वर उच्यते ॥` इति । श्रुतिर्नाम स्वरारम्भकावयवः शब्दविशेषः । तदुक्तम्-`प्रथमश्रवणाच्छब्दः श्रूयते ह्रस्वमात्रकः । सा श्रुतिः संपरिज्ञेया स्वरावयवलक्षणा ॥` इति । विभिन्नानि प्रतिनियतसंख्यया व्यवस्थितानि श्रुतीनां मण्डलानि समूहा येषां तैर्विभिन्नश्रुतिमण्डलैः । श्रुतिसंख्यानियमश्च दर्शितः`चतुश्चतुश्चतुश्चैव षड्जमध्यमपञ्चमाः । द्वे द्वे निषादगान्धारौ त्रिस्त्रिर्ऋषभधैवतौ ॥` स्वराः षड्जादयः सप्तोक्तलक्षणाः । तदुक्तम्-श्रुतिभ्यः स्युः स्वराः षड्जर्षभगान्धारमध्यमाः । पञ्चमो धैवतश्चाथ निषाद इति सप्त ते । तेषां संज्ञाः सरिगमपधनीत्यपरा मताः ॥` इति । तैः स्वरैः स्फुटीभवन्त्यो ग्रामविशेषाणां षड्जाद्यपरनामकानां स्वरसंघातभेदानां त्रयाणां मूर्च्छनाः स्वरारोहावरोहक्रमभेदा यस्यां तां महतीं (महतीनाम्नीं) निजवीणाम् । `विश्वावसोस्तु बृहती तुम्बुरोस्तु कलावती । महती नारदस्य स्यात्सरस्वत्यास्तु कच्छपी ॥` इति वैजयन्ती । मुहुर्मुहुरवेक्षमाणम् । तन्त्रीयोजनाभेदलक्षणमहिम्ना पुरुषप्रयत्नमन्तरेणैवाविसंवादं ध्वनतीति कौतुकादनुसंदधानमित्यर्थः । अथ ग्रामलक्षणम्-`यथा कुटुम्बिनः सर्वेऽप्येकीभूता भवन्ति हि । तथा स्वराणां संदोहो ग्राम इत्यभिधीयते॥ षड्जग्रामो भवेदादौ मध्यमग्राम एव च । गान्धारग्राम इत्येतद्ग्रामत्रयमुदाहृतम् ॥` इति । तथा च--नन्द्यावर्तोऽथ जीमूतः सुभद्रो ग्रामकास्त्रयः । षड्जमध्यमगान्धारास्त्रयाणां जन्महेतवः ॥` इति । मूर्च्छनालक्षणं च–`क्रमात्स्वराणां सप्तानामारोहश्चावरोहणम् । सा मूर्च्छेत्युच्यते ग्रामस्था एताः सप्त सप्त च ॥` ग्रामत्रयेऽपि प्रत्येकं सप्त सप्त मूर्च्छना इत्येकविंशतिर्मूर्च्छना भवन्ति । तत्र नामानि तु `नानपेक्षितमुच्यते` इति प्रतिज्ञाभङ्गभयान्न लिख्यन्त इति सर्वमवदातम् । अत्र पुंव्यापारमन्तरेण स्वराद्याविर्भावोक्त्या कोऽपि लोकातिक्रान्तोऽयं शिल्पसौष्ठवातिशयो वीणायाः प्रतीयते । तेन सह स्वतःप्रसिद्धातिशयस्याभेदेनाध्यवसितत्वात्तन्मूलातिशयोक्तिरलंकारः । सा च महत्याः पुंव्यापारं विना मूर्च्छाद्यसंबन्धेऽपि संबन्धाभिधानादसंबन्धे संबन्धरूपतया पुंव्यापाराख्यरूपकारणं विनापि मूर्च्छनादिकार्योत्पत्तिद्योतनाद्विभावना व्यज्यत इत्यलंकारेणालंकारध्वनिरिति संक्षेपः
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
द्भि रा ट्ट या स्व तः
पृ ग्वि भि न्न श्रु ति ण्ड लैः स्व रैः
स्फु टी द्ग्रा वि शे मू र्च्छ ना
वे क्ष मा णं तीं मु हु र्मु हुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.