विहङ्गराजाङ्गरुहैरिवायतै-
र्हिरण्मयोर्वीरुहवल्लितत्नुभिः ।
कृतोपवीतं हिमशुभ्रमुच्चकै-
र्घनं घनान्ते तटितां गणैरिव ॥

मल्लिनाथः विहंगेति ॥ पुनः । विहंगराजाङ्गरुहैरिव गरुत्मल्लोमतुल्यैरायतैर्दीधैः। हिरण्यस्य विकारो हिरण्मयी । `दाण्डिनायन-` (अष्टाध्यायी ६.४.१७४ ) इत्यादिना मयटि यलोपनिपातः । तस्यामुया॑ रुहा रूढाः । इगुपधालक्षणः कप्रत्ययः । तासां वल्लीनां तन्तुभिस्तत्तुल्यैः सूक्ष्मावयवैः । उपादानगुणात् । हिरण्मयैः कृतोपवीतं शोभार्थं कल्पितयज्ञसूत्रं स्वयं हिमशुभ्रम् । अत एव घनान्ते शरदि तडितां गणैरुपलक्षितम् । `तडित्सौदामनी विद्युत्` इत्यमरः । उच्चैरेवोच्चकैरुन्नतं धनं मेघमिव स्थितम्
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
वि ङ्ग रा जा ङ्ग रु है रि वा तै
र्हि ण्म यो र्वी रु ल्लि त्नु भिः
कृ तो वी तं हि शु भ्र मु च्च कै
र्घ नं ना न्ते टि तां णै रि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.