मल्लिनाथः
हृदयमिति ॥ अरिवधोदयात् रिपुनाशलाभात् । उदूढद्रढिम नैश्चिन्त्याद्धृतदार्ढ्यम् । स्वस्थमिति यावत् । पृथ्वादित्वाद्दृढशब्दादिमनिच्प्रत्ययः । `र ऋतो हलादेर्लघोः` (अष्टाध्यायी ६.३.१६१ ) इति ऋकारस्य रेफादेशः । पुरः शत्रुपुराणि दारयतीति पुरन्दर इन्द्रः । `पू:सर्वयोर्दारिसहोः` (अष्टाध्यायी ३.२.४१ ) इति खच्प्रत्ययः। `खचि ह्रस्वः` (अष्टाध्यायी ६.४.९४ ) इत्युपधाह्रस्वः। `वाचंयमपुरंदरौ च` (६॥३६९) इति निपातनाददन्तत्वं मुमागमश्च । तस्य हृदयं पुनर्भूयोऽपि । पूर्ववदेवेति भावः । घनपुलकयोः सान्द्ररोमाञ्चयोः । पुलोम्नो जाता पुलोमजा शची तस्याः कुचाग्रयोः द्रुतपरिरम्भ औत्सुक्यात् शीघ्रालिङ्गनं तत्र यत्पीडनं तस्य क्षमत्वं सहत्वं दधातु । प्राक्चित्तविक्षेपात्त्यक्तभोगेन शक्रेण संप्रति त्वत्प्रसादान्निष्कण्टकं स्वकीयं राज्यं भुज्यतामित्यर्थः । अत्र दार्ढ्यपदार्थस्योदूढद्रढिमेति विशेषणगत्या निपीडनक्षमत्वं प्रति हेतुत्वोक्त्या पदार्थहेतुकं काव्यलिङ्गम् । हृदयनिपीडनक्षमत्वसंबन्धेऽप्यसंबन्धोक्त्या संबन्धेऽसंवन्धरूपातिशयोक्तिरित्यर्थालंकारो वृत्त्यनुप्रासश्च तैरन्योन्यं संसृज्यते । पुष्पिताग्रा वृत्तम् । `अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा` इति लक्षणात्
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.