तदेनमुल्लङ्घितशासनं विधे-
र्विधेहि कीनाशनिकेतनातिथिम् ।
शुभेतराचारविपक्त्रिमापदो
विपादनीया हि सतामसाधवः ॥

मल्लिनाथः तदेनमिति ॥ तत्तस्मात् विधेर्विधातुरप्युल्लङ्घितशासनम् । स्वयं विधातेत्याद्युक्त पाठा०-१ `विपादनीयाः`. रीत्यातिक्रान्तदैवशासनमित्यर्थः । सापेक्षत्वेऽपि गमकत्वात् समासः । एनं शिशुपालं कीनाशनिकेतनातिथिं कीनाशो यमः तस्य निकेतनं गृहं तत्र अतिथिं प्राघुणिकं विधेहि कुरु । यमगृहं प्रेषयेत्यर्थः । `कीनाशः कर्षके क्षुद्रे कृतान्तोपांशुघातिनोः` इति विश्वः । न चैतत् प्राघुणिकहस्तेन सर्पमारणं भवादृशामवश्यकर्तव्यत्वादित्याह-शुभेतराचारेण दुराचारेण विपक्रिमाः परिपाकेन निर्वृत्ताः कालपरिपाकेन प्राप्ता आपदो येषां ते तथोक्ताः । `ड्वितः क्रिः` (अष्टाध्यायी ३.३.८८ ) इति पचेः क्रिप्रत्ययः । `क्रेर्मम्नित्यम्` (वा०) इति तद्धितो मम्प्रत्ययः । असाधवो दुष्टाः सतां भवादृशां जगन्नियन्तॄणां निपातनीयाः वध्या हि । न च नैर्घृण्यदोषः ।स्वदोषेणैव तेषां विनाशे निमित्तमात्रत्वादस्माकमित्याशयेन शुभेतराचारेत्यादिविशेषणोक्तिः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
दे मु ल्ल ङ्घि शा नं वि धे
र्वि धे हि की ना नि के ना ति थिम्
शु भे रा चा वि क्त्रि मा दो
वि पा नी या हि ता सा वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.