बलावलेपादधुनापिपूर्वव-
प्रबाद्ध्यते तेन जगज्जिगीषुणा ।
सतीव योषित्प्रकृतिः सुनिश्चला
पुमांसंमब्येति भवान्तरेष्वपि ॥

मल्लिनाथः बलेति ॥ जिगीषुणा । नित्योत्साहवतेत्यर्थः । तेन शिशुपालेन बलावलेपाद्वलगर्वादधुनापि पूर्ववत् पूर्वजन्मनीव जगत् प्रबाध्यते । तथा हि—सती पतिव्रता योषिदिव सुनिश्चलाऽतिस्थिरा प्रकृतिः स्वभावो भवान्तरेषु जन्मान्तरेष्वपि पुमांसमभ्येति । `पति या नाभिचरति मनोवाक्कायसंयता। सा भर्तुर्लोकमाप्नोति सद्भिः साध्वीति चोच्यते ॥` इति मनुः (५।६५)। उपमोपमेयपुरस्कृतोऽर्थान्तरन्यासः
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
ला ले पा धु ना पि पू र्व
प्र बा द्ध्य ते ते ज्जि गी षु णा
ती यो षि त्प्र कृ तिः सु नि श्च ला
पु मां सं ब्ये ति वा न्त रे ष्व पि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.