Loading data... On slow networks this could take a few minutes.
100%

स बाल आसीद्वपुषा चतुर्भुजो
मुखेन पूर्णेन्दुनिभस्त्रिलोचनः ।
युवाकराक्रान्तमहीभृदुच्चकै-
रसंशयं संप्रति तेजसा रविः ॥

मल्लिनाथः स बाल इति ॥ स शिशुपालो बालः सन् वपुषा चतुर्भुजो भुजचतुष्टयवानासीत् । विष्णुरिति ध्वनिः । मुखेन पूर्णेन्दुनिभस्तत्तुल्यः त्रिलोचनो लोचनत्रयवानासीत् । त्र्यम्बक इति ध्वनिः। बालविशेषणात्संप्रति तत्सर्वमन्तर्हितमिति भावः। संप्रति तु युवा सन् करेण बलिना आक्रान्तमहीभृदधिष्ठितराजकः सन् । अन्यत्रांशुव्याप्तशैलः । `बलिहस्तांशवः कराः` इत्यमरः । उच्चकैस्तेजसा रविरसंशयम् । संशयो नास्तीत्यर्थः । अर्थाभावेऽव्ययीभावः । वपुषा मुखेन चेति । `येनाङ्गविकारः` (अष्टाध्यायी २.३.२० ) इति तृतीया। हानिवदाधिक्यस्यापि विकारत्वात् । तथा च वामनः-`हानिवदाधिक्यमप्यङ्गविकारः` इति । तेजसेति `प्रकृत्यादिभ्य उपसंख्यानम्` (वा०) इति तृतीया। कराक्रान्तेत्यादिना श्लेषानुप्राणितेयमुत्प्रेक्षा । रविरसंशयमिति तस्य पूर्णेन्दुनिभ इत्युपमया संसृष्टिः। हरिहरादितुल्यमहिमत्वादतिदुर्धर्षः स इति भावः
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
बा सी द्व पु षा तु र्भु जो
मु खे पू र्णे न्दु नि स्त्रि लो नः
यु वा रा क्रा न्त ही भृ दु च्च कै
सं यं सं प्र ति ते सा विः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.