अतोपपत्तिं छलनापरोऽपरा-
मवाप्य शैलूष इवैष भूमिकां ।
तिरोहितात्मा शिशुपालसंज्ञया
प्रतीयते संप्रति साप्यसः परैः ॥

मल्लिनाथः अथेति ॥ अथ राक्षसदेहत्यागानन्तरं संप्रति छलनापरः परप्रतारणापरः एष रावणः शैलूषो नटः तस्य भूमिकां रूपान्तरमिव । `शैलूषो नटभिल्लयोः । भूमिका रचनायां स्यान्मूर्यन्तरपरिग्रहे` इति विश्वः । अपरामुपपत्तिम् । जन्मान्तरमित्यर्थः । अवाप्य शिशुपालसंज्ञया तिरोहितात्मा तिरोहितस्वरूपः सन् सोऽपि रावण एव सन्नपि परैरितरैः स न भवतीत्यसः तस्मादन्य एव । `नम्` (अष्टाध्यायी २.२.६ ) इति नञ् समासः। अत एव `एतत्तदोः सुलोप-`(अष्टाध्यायी ६.१.१३२ ) इत्यादिना न सुलोपः। पाठा०-१`विनाशस्त्वयैव`. २ `आविद्ध.` ३`आविद्धानि सेतुबन्धेऽद्रिभिः अभिहतानि`. प्रतीयते ज्ञायत इति प्रतिपूर्वादिणः कर्मणि लट् । यथैक एव शैलूषो रूपान्तमास्थाय तद्देशभाषादिभिरन्य एव प्रतीयते तद्वदयमपि मानुषदेहपरिग्रहादन्य इव भाति । दौर्जन्यं तु तदेवेत्यवश्यं संहार्य इति भावः
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
तो त्तिं ना रो ऽप रा
वा प्य शै लू वै भू मि कां
ति रो हि ता त्मा शि शु पा सं ज्ञ या
प्र ती ते सं प्र ति सा प्य सः रैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.