Loading data... On slow networks this could take a few minutes.
100%

पिशङ्गमौञ्जीयुजमर्जुनच्छविं
वसानमेणाजिनमञ्नद्युति ।
सुवर्मसूत्राकलिताधराम्बरां
विडम्बयन्तं शितिवाससस्तनुम् ॥

मल्लिनाथः पिशङ्गेति ॥ पुनः कीदृशम् । मुञ्जस्तृणविशेषः तन्मयी मेखला मौञ्जी पिशङ्ग्या मौङ्ज्या युज्यत इति पिशङ्गमौञ्जीयुक् तम् । `सत्सूद्विष-` (अष्टाध्यायी ३.२.६१ ) इत्यादिना क्विप् । `स्त्रियाः पुंवत्-` (अष्टाध्यायी ६.३.३४ ) इति पिशङ्गशब्दस्य पुंवद्भावः। अर्जुनच्छविं धवलकान्तिम् । `वलक्षो धवलोऽर्जुनः` इत्यमरः । अञ्जनद्युत्यञ्जनवर्ण एणाजिनं कृष्णमृगचर्म वसानमाच्छादयन्तम् । `वस आच्छादने` इति धातोः शानच् । सुवर्णसूत्रेण कनकमेखलया आकलितं बद्धमधराम्बरमन्तरीयकं यस्यास्तां शितिवाससो नीलाम्बरस्य रामस्य तनुं विडम्बयन्तम् । अनुकुर्वाणमित्यर्थः । आर्थीयमुपमा
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
पि ङ्ग मौ ञ्जी यु र्जु च्छ विं
सा मे णा जि ञ्न द्यु ति
सु र्म सू त्रा लि ता रा म्ब रां
वि म्ब न्तं शि ति वा स्त नुम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.