Loading data... On slow networks this could take a few minutes.
100%

स्मरत्यदो दाशरथिर्भवानमुं
वनान्ताद्वनितापहारिणम् ।
पयोधिमाबद्धचलज्जलाबिलं
विलङ्घ्यलङ्गां निकषा हनिष्यति ॥

मल्लिनाथः स्मरतीति ॥ भातीति भवान् । भातेर्डवतुः । दशरथस्यापत्यं पुमान्दाशरथिः । `अत इञ्` (अष्टाध्यायी ४.१.९५ ) इतीञ्प्रत्ययः । भवन् । रामः सन्नित्यर्थः । भवतेर्लटः शत्रादेशः । वनान्ताद्दण्डकारण्याद्वनितापहारिणं सीतापहर्तारममुं रावणम् । आबद्धः प्रक्षिप्ताद्रिभिर्बद्धसेतुः अत एव चलन्ति जलानि यस्य स च अत एव आविलश्च तं आबद्धचलज्जलाविलं पयोधिं विलङ्घ्य लङ्कां निकषा लङ्कासमीपे । "समयानिकषाशब्दौ सामीप्ये त्वव्यये मतौ` इति हलायुधः । `अभितःपरित:समयानिकषाहाप्रतियोगेष्वपि` (वा०) इति द्वितीया । हनिष्यति अवधीत् । `अभिज्ञावचने लृट्` (अष्टाध्यायी ३.२.११२ ) इति भूते लृट् । अदो हननं भवान्स्मरतीति काकुः । प्रत्यभिजानासि किमित्यर्थः । शेषे प्रथमः
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
स्म त्य दो दा थि र्भ वा मुं
ना न्ता द्व नि ता हा रि णम्
यो धि मा द्ध ज्ज ला बि लं
वि ङ्घ्य ङ्गां नि षा नि ष्य ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.