अमानवं जातमजं कुले मनोः
प्रभाविनं भाविन्नमन्तमात्मनः ।
मुमोच जानन्नपि जानकीं न यः
सदभिमानैकधना हि मानिनः ॥

मल्लिनाथः अमानवमिति ॥ मनोरयं मानवः । `तस्येदम्` (अष्टाध्यायी ४.३.१२० ) इत्यण्प्रत्यये पर्यवसानाज्जातावेकवचनम् । अन्यथा मनोर्जातमित्येव स्यात् । अमानवममानुषम् । न जायत इत्यजम् । `अन्येष्वपि दृश्यते` (अष्टाध्यायी ३.२.१०१ ) इति डप्रत्ययः । तथापि मनोः कुले जातं रामस्वरूपेणोत्पन्नमिति विरोधः । स चाभासत्वादलंकार इत्याहप्रभाविनमिति । महानुभावे तस्मिन्न कश्चिद्विरोध इति भावः। `आभीक्ष्ण्ये णिनिः` इति णिनिः । इनिर्वा मत्वर्थीयः । भवन्तमिति शेषः । आत्मनः स्वस्यान्तं करोतीत्यन्तम् । अन्तशब्दात् `तत्करोति-` (ग०) इति ण्यन्तात्पचाद्यच् । भाविनं भविष्यन्तम् । `भविष्यति गम्यादयः` (अष्टाध्यायी ३.३.३ ) । जानन्नपि यो रावणः जनकस्यापत्यं स्त्री जानकी सीता तां न मुमोच नामुञ्चदित्यन्वयः । जानतोऽप्यमोचने कारणमाह-मानिनः सदा प्राणात्ययेऽप्यभिमान एवैकं मुख्यं धनं येषां ते । प्राणात्ययेऽपि न मानं मुञ्चन्तीत्यर्थः । कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासः
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११ १२
मा वं जा जं कु ले नोः
प्र भा वि नं भा वि न्न न्त मा त्म नः
मु मो जा न्न पि जा कीं यः
भि मा नै ना हि मा नि नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.