तपेन वर्षाः शरदा हिमागमो
वसन्तलक्ष्म्या शिशिरः समेत्य च ।
प्रसूनकॢप्तिं दधतः सदर्तवः
पुरोस्य वास्तव्यकुटुम्बितां ययौ ॥

मल्लिनाथः तपेनेति ॥ सदा नित्यं नतु यथाकालं प्रसूनक्लृप्तिं कुसुमसंपत्तिम् । `प्रसूनं कुसुमं सुमम्` इत्यमरः । दधतो धारयन्तः ऋतवो वर्षाः प्रावृट् तपेन ग्रीष्मेण । "उष्ण ऊष्मागमस्तपः` इति, `स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षा अथ शरत्स्त्रियाम्` इति चामरः । तथा हिमागमो हेमन्तः शरदा, तथा शिशिरो वसन्तलक्ष्म्या च समेत्य मिथुनीभावेन मिलित्वा अस्य रावणस्य पुरे वसन्तीति वास्तव्या वस्तारः । `वसेस्तव्यत्कर्तरि णिच्च` (वा) इति तव्यत् प्रत्ययः । ते च कुटुम्बिनश्च तेषां भावं तत्ताम् । प्रतिवासित्वमित्यर्थः । ययुः समेत्य ययुरिति समुदायसमुदायिनोरभेदविवक्षया समानकर्तृत्वम् । अत्र पुरे युगपत्सर्वर्तुसंबन्धाभिधानादसंबन्धे संबन्धरूपातिशयोक्तिः
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
पे र्षाः दा हि मा मो
न्त क्ष्म्या शि शि रः मे त्य
प्र सू कॢ प्तिं तः र्त वः
पु रो स्य वा स्त व्य कु टु म्बि तां यौ
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.