Loading data... On slow networks this could take a few minutes.
100%

अभीक्ष्णमुष्णैरपि तस्य सोष्मणः
सुरेन्द्रवन्दीश्वसितानिलैर्यथा ।
सचन्दनाम्भःकणकोमलैस्तथा
वपुर्जलार्द्रापवनैर्न निर्वबौ ॥

मल्लिनाथः अभीक्ष्णमिति ॥ ऊष्मणा स्मरज्वरेण सहितः सोष्मा तस्य सोष्मणस्तस्य रावणस्य वपुरभीक्ष्णं भृशमुष्णैरपि । शोकादिति भावः । सुरेन्द्रस्य बन्द्यः बन्दीकृताः स्त्रियः तासां श्वसितानिलैर्निःश्वासमारुतैर्यथा निर्ववौ निर्वृतम् । `निर्वाणं निर्वृतौ मोक्षे` इति वैजयन्ती । तथा सचन्दनाम्भःकणाः चन्दनोदकबिन्दुसहिताः ते च ते कोमला मृदुलाश्च तैर्जलार्द्राणां जलोक्षिततालवृन्तानां पवनैर्न निर्ववौ । `धुवित्रं तालवृन्तं स्यादुत्क्षेपव्यजनं च तत्` । `जलार्द्रा स्याज्जलेनार्द्रं` इति वैजयन्ती । अत्र संतप्तस्योष्णोपचारान्निर्वृतिरिति कारणविरुद्धकार्योत्पत्तिरूपो विषमालंकारः
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
भी क्ष्ण मु ष्णै पि स्य सो ष्म णः
सु रे न्द्र न्दी श्व सि ता नि लै र्य था
न्द ना म्भः को लै स्त था
पु र्ज ला र्द्रा नै र्न नि र्व बौ
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.