Loading data... On slow networks this could take a few minutes.
100%

तदीयमातङ्गघटाविघट्टितैः
कटस्थलप्रोषितदानवारिभिः ।
गृहीतदिक्कैरपुनर्निवर्तिभि-
श्चिराय याथार्थ्यमलम्बि दिग्गजैः ॥

मल्लिनाथः तदीयेति ॥ तदीयमातङ्गानां घटाभिर्व्यूंहैः विघट्टितैरभिहतैः । `करिणां घटना घटा` इत्यमरः । अत एव कटस्थलेभ्यः प्रोषितान्यपगतानि दानवारीणि येषां तैः। गृहीताः पलाय्य संश्रिता दिशो यैस्तैर्गृहीतदिक्कैः। शेषाद्विभाषा` (अष्टाध्यायी ५.४.१५४ ) इति कप् । अपुनर्निवर्तिभिर्भयात्तत्रैव स्थितैर्दिग्गजैः चिराय याथार्थ्यं दिक्षु स्थिता गजा दिग्गजा इत्यनुगतार्थनामकत्वमलम्भि लब्धम् । लभेर्ण्यन्तात् कर्मणि लुङ् । `विभाषा चिण्णमुलोः` (अष्टाध्यायी ७.१.६९ ) इति विकल्पान्नुमागमः
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
दी मा ङ्ग टा वि ट्टि तैः
स्थ प्रो षि दा वा रि भिः
गृ ही दि क्कै पु र्नि र्ति भि
श्चि रा या था र्थ्य म्बि दि ग्ग जैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.