Loading data... On slow networks this could take a few minutes.
100%

परस्यमर्मविधमुज्झतां निजं
द्विजिह्वतादोषमजिह्मगामिभिः ।
तमिद्धमाराधयितुं सकर्णकैः
कुलैर्न भेजे फणिनां भुजङ्गता ॥

मल्लिनाथः परस्येति ॥ किंच इद्धं दीप्तम् । उग्रमित्यर्थः । `इन्धी दीप्तौ` कर्तरि क्तः । तं रावणमाराधयितुं सेवितुं परस्य स्वेतरस्य मर्माणि हृदयादिजीवस्थानानि, कुलाचारव्रतानि च विध्यति भिनत्तीति मर्मावित् । विध्यतेः क्विप् `ग्रहिज्या-` (अष्टाध्यायी ६.१.१६ ) इति संप्रसारणम् । `नहिवृति-` (अष्टाध्यायी ६.३.११६ ) इत्यादिना पूर्वस्य दीर्घः । तं मर्माविधं निजं स्वीयं द्विजिह्वतायां सर्पत्वे यो दोषो दृष्टिविषत्वादिस्तम् । अन्यत्र द्विजिह्वता पिशुनता । `द्विजिह्वौ सर्पसूचकौ` इत्यमरः । सैव दोषस्तमुज्झतां त्यजतां फणिनां संबन्धिभिरजिह्मगामिभिः करचरणादिमद्विग्रहधारित्वात् ऋजुगतिभिः, अकपटचारिभिश्च । तथा कर्णाभ्यां सह वर्तन्त इति सकर्णकाः तैश्चक्षुःश्रवस्त्वं विहाय आविष्कृतकर्णैरित्यर्थः । तेन सहेति तुल्ययोगे` (अष्टाध्यायी २.२.२८ ) इति बहुव्रीहिः । शेषाद्विभाषा` (अष्टाध्यायी ५.४.१५४ ) इति कप् । अन्यत्र कर्णयति सर्वं शृणोतीति कर्णको नियन्ता । कर्णयतेर्ण्वुल् । ततः पूर्ववत्समासे सकर्णकैः । सनियामकैरित्यर्थः । फणिनां सर्पाणां कुलैर्वर्गैर्भुजंगता सर्पता, विटत्वं च । `भुजङ्गो विटसर्पयोः` इति हलायुधः । न भेजे त्यक्तः । भुजैर्गच्छन्तीति भुजंगाः । गमेः सुपि `खच् च डिद्वा वाच्यः` । तस्मिन्नियन्तरि खलैः खलत्वमपि, सर्पैः सर्पत्वमपि विहाय वेषभावक्रियाभिः सौम्यत्वं श्रितमित्यर्थः । अत्र प्रस्तुतसर्पविशेषणसाम्यादप्रस्तुतखलव्यवहारप्रतीतेः समासोक्तिः
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
स्य र्म वि मु ज्झ तां नि जं
द्वि जि ह्व ता दो जि ह्म गा मि भिः
मि द्ध मा रा यि तुं र्ण कैः
कु लै र्न भे जे णि नां भु ङ्ग ता
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.