तिरस्कृतस्तस्य जनाभिभाविना
मुहुर्महिम्ना महसां महीयसां ।
बभार बाष्पैर्द्वगुणीकृतं तनु-
तनूनपाद्धूममवितानमाधिजैः ॥

मल्लिनाथः तिरस्कृत इति ॥ किंच तस्य रावणस्य जनाभिभाविना लोकतिरस्कारिणा महीयसामतिमहतां महसां तेजसा महिम्ना महत्त्वेन । `पृथ्वादिभ्य इमनिज्वा` (५।१। १२२) इतीमनिच् । मुहुस्तिरस्कृतः अत एव तनुः कृशः । तनुं न पातयति जाठररूपेण शरीरं धारयतीति तनूनपादग्निरिति स्वामी । `नभ्राट्-` (६।३। ७५) इत्यादिसूत्रेण निपातनान्नञो लोपाभावः । आधिजैर्दुःखोत्थैर्बाष्पैः निःश्वासोष्मभिः । `बाष्पो नेत्रजलोष्मणोः`, `पुंस्याधिर्मानसी व्यथा` इति विश्वामरौ । द्वौ गुणावावृत्ती यस्य स द्विगुणः । ततश्चिवः । द्विगुणीकृतं द्विरावृत्तम् । `गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु` इति वैजयन्ती । धूमवितानं धूममण्डलं बभार । अग्निरपि तत्संनिधौ निस्तेजस्को धूमायमान आस्त इत्यर्थः । धूमद्वैगुण्यासंबन्धे संबन्धाभिधानादतिशयोक्तिः
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२ १३
ति स्कृ स्त स्य ना भि भा वि ना
मु हु र्म हि म्ना सां ही सां
भा बा ष्पै र्द्व गु णी कृ तं नु
नू पा द्धू वि ता मा धि जैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.