निशान्तनारीपरिधानधूनन-
स्फुटागसाप्यूरुषु लोलचक्षुषः ।
प्रियेण तस्यानपराधबाधिताः
प्रकम्पनेनानुचकम्पिरे सुराः ॥

मल्लिनाथः निशान्तेति ॥ निशान्तं गृहम् । `निशान्तं गृहशान्तयोः` इति विश्वः । तत्र पाठा०-१ `इकारः,लोपोऽभ्यासस्य`. या नार्यः । शुद्धान्तःस्त्रिय इत्यर्थः । तासां परिधानान्यन्तरीयाणि । `अन्तरीयोपसंव्यानपरिधानान्यधोंशुके` इत्यमरः । तेषां धूननं चालनम् । धूञो ण्यन्ताल्लट् । `धूञ्प्रीञोर्नुग्वक्तव्यः` (वा०) इति नुक् । तेन स्फुटागसा व्यक्तापराधेनापि । अन्तःपुरद्रोहस्य महापराधत्वादिति भावः । ऊरुषु तासां सक्थिषु लोलचक्षुषः सतृष्णदृष्टेः। `सक्थि क्लीबे पुमानूरुः` इति, `लोलश्चलसतृष्णयोः` इति चामरः । अत एव तस्य रावणस्य प्रियेण प्रमोदास्पदभूतेनाङ्गीकृतः । म्लानिर्न दोषायेति न्यायादिति भावः । प्रकम्पनेन वायुना अनपराधेऽपराधाभावेऽपि बाधिताः । राजपुरुषैरिति शेषः । सुरा अनुचकम्पिरे । स्वयमुपायेनान्तःप्रविश्यानपराधबाधानिवेदनेन मोचयता वायुनानुकम्पिता इत्यर्थः । एकस्य वैदग्ध्याद्बहवो जीवन्तीति भावः
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
नि शा न्त ना री रि धा धू
स्फु टा सा प्यू रु षु लो क्षु षः
प्रि ये स्या रा बा धि ताः
प्र म्प ने ना नु म्पि रे सु राः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.