Loading data... On slow networks this could take a few minutes.
100%

विदग्धलीलोचितदन्तपत्रिका-
विधित्सया नूनमनेन मानिना ।
न जातु वैनायकमेकमुद्धृतं
विषाणमद्यापि पुनः प्ररोहति ॥

मल्लिनाथः विदग्धेति ॥ मानिनाहंकारिणा अनेन रावणेन विदग्धलीलाः। चतुरविलासिन्य इत्यर्थः । तासामुचिताश्च ता दन्तपत्रिकाश्च कर्णभूषणानि । `विलासिनीविभ्रमदन्तपत्रिका` इति साधीयान्पाठः । अन्यथा विप्रकृष्टार्थप्रतीतिकत्वेन कष्टाख्यार्थदोषापत्तेः । `कष्टं तदर्थावगमो दूरायत्तो भवेत्` इति लक्षणात् । अत्र विलासिनीनां या विभ्रमदन्तपत्रिका विभ्रमार्थानि यानि दन्तमयपत्राणि । विभ्रमदन्तशब्दयोः षष्ठीसमासपर्यवसानात्तादर्थ्यलाभः । तासां विधित्सया विधातुमिच्छया । विपूर्वाद्दधातेः `सनि मीमा-` (अष्टाध्यायी ७.४.५४ ) इत्यादिना अच इस् । `सः सि` इति तकारः । अन `लोपोऽभ्यासस्य` (अष्टाध्यायी ७.४.५८ ) इत्यभ्यासलोपः । ततः `स्त्रियाम्` (अष्टाध्यायी ४.१.३ ) इत्यनुवृत्तौ `अ प्रत्ययात्` (अष्टाध्यायी ३.३.१०२ ) इत्यकारप्रत्यये टाप् । नूनं निश्चितं जातु कदाचिदपि । कदाचिज्जातु` इत्यमरः । उद्धृतमुत्पाटितं विनायकस्य गणेशस्येदं वैनायकं एकं विषाणं दन्तः । `विषाणं पशुशृङ्गे स्यात्क्रीडाद्विरददन्तयोः` इति विश्वः । अद्यापि पुनर्न प्ररोहति न प्रादुर्भवति । प्रपूर्वात् `रुह प्रादुर्भावे` इत्यस्माल्लट् । किमन्यदकार्यमस्येति भावः । एतदन्यथा कथं गजाननस्यैकदन्तत्वमुत्प्रेक्ष्यते नूनमिति
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
वि ग्ध ली लो चि न्त त्रि का
वि धि त्स या नू ने मा नि ना
जा तु वै ना मे मु द्धृ तं
वि षा द्या पि पु नः प्र रो ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.