कलासमग्रेणगृहानमुञ्चता
मनस्विनीरुत्कयितुं पटीयसा ।
विसासिनस्तस्य वितन्वतारतिं
न नर्मसाचिव्यमकारिनेन्दुना ॥

मल्लिनाथः कलासमग्रेणेति ॥ कलाभिः षोडशांशैः, शिल्पविद्याभिश्च समग्रेण संपूर्णेन । `काले शिल्पे वित्तवृद्धौ चन्द्रांशे कलने कला` इति वैजयन्ती । गृहानमुञ्चता सदा तद्गृहेष्वेव वसता । दण्डभयात्सेवाधर्मत्वाच्चेति भावः । मनस्विनीर्मानिनीरुत्का उत्सुकाः कर्तुम् उत्कयितुम् । `उत्क उन्मनाः` (अष्टाध्यायी ५.२.८० ) इति निपातनादुत्कशब्दात् `तत्करोति-` (ग०) इति ण्यन्तात्तुमुन् । पटीयसा । मानभेदचतुरेणेत्यर्थः । कुतः । रतिं वितन्वता चन्द्रिकाभिश्चतुरोक्तिभिश्च रागं वर्धयता इन्दुना विलासिनो विलसनशीलस्य । `वौ कषलस-` (अष्टाध्यायी ३.२.१४३ ) इत्यादिना घिनुण् प्रत्ययः । तस्य रावणस्य नर्मसाचिव्यं क्रीडासंबन्ध्यधिकारित्वे सचेष्टत्वम् । `लीला क्रीडा च नर्म च` इत्यमरः । नाकारीति न किंत्वकार्येवेत्यर्थः । अनौचित्यात्प्राप्तनर्मसाचिव्यनिषेधनिवारणार्थं नञ्द्वयम् । `संभाव्यनिषेधनिवर्तने नञ्द्वयम्` इति वामनः । अत्रेन्दोः प्रकृतस्याप्रकृतेन नर्मसचिवेन श्लेषः
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
ला ग्रे गृ हा मु ञ्च ता
स्वि नी रु त्क यि तुं टी सा
वि सा सि स्त स्य वि न्व ता तिं
र्म सा चि व्य का रि ने न्दु ना
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.