Loading data... On slow networks this could take a few minutes.
100%

दधानमम्भोरुहकेसरद्युती-
र्जटाः शरच्चन्द्र मरीचिरोचिषम् ।
विपाकस्तुङ्गास्तुहिनस्थलीरुहो
धरादरेन्द्रं व्रततीततीरिव ॥

मल्लिनाथः दधानमिति ॥ पुनः कीदृशम् । अम्भोरुहकेसरद्युतीः पद्मकिंजल्कप्रभापिशङ्गीरित्यर्थः । जटा दधानम् , स्वयं तु शरच्चन्द्रमरीचिरिव रोचिर्यस्य तम् । धवलमित्यर्थः । अत एव विपाकेन परिणामेन पिङ्गाः पिङ्गलास्तुहिनस्थल्यां तुषारभूमौ रोहन्तीति तुहिनस्थलीरुहः व्रततीततीर्लताव्यूहान् `वल्ली तु व्रततिर्लता` इत्यमरः । दधानं धराधरेन्द्रो हिमवान् तुहिनस्थलीति लिङ्गान्नारदोपमानत्वाच्च तमिव स्थितम्
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
धा म्भो रु के द्यु ती
र्ज टाः च्च न्द्र री चि रो चि षम्
वि पा स्तु ङ्गा स्तु हि स्थ ली रु हो
रा रे न्द्रं व्र ती ती रि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.