सृपशन्सशङ्कः समये शुचावपि स्थितः कराग्रैरसमग्रपातिभिः । अघघर्मोदकबिन्दुमौक्तिकैरलञ्चकारास्य वधूरहस्करः ॥
सृपशन्सशङ्कः समये शुचावपि स्थितः कराग्रैरसमग्रपातिभिः । अघघर्मोदकबिन्दुमौक्तिकैरलञ्चकारास्य वधूरहस्करः ॥
मल्लिनाथः
स्पृशन्निति ॥ अहः करोतीत्यहस्करः सूर्यः । `दिवाविभानिशा-` (अष्टाध्यायी ३.२.२१ ) इत्यादिना टप्रत्ययः। कस्कादित्वात् सत्वम् । शुचौ समये ग्रीष्मकाले, अनुपहते आचारे च स्थितोऽपि । `शुचिः शुद्धेऽनुपहते शृङ्गाराषाढयोरपि । ग्रीष्मे हुतवहेऽपि स्यात्` इति विश्वः। `समयाः शपथाचारकालसिद्धान्तसंविदः` इत्यमरः । असमग्रपातिभिः । संकुचितवृत्तिभिरित्यर्थः । कराणामंशूनां, हस्तानां चाग्रैः । `बलिहस्तांशवः कराः` इत्यमरः । सशङ्कः स्पृशन् । अविश्वासभयादिति भावः । अघर्मा अनुष्णा घर्मोदकबिन्दवः स्वेदोदबिन्दवः । `मन्थौदन-` (अष्टाध्यायी ६.३.६० ) इत्यादिना विकल्पादुदकशब्दस्योदादेशाभावः । तैरेव मौक्तिकैरस्य वधूरलंचकार । ग्रीष्मे तद्भयान्नासह्यं तपतीत्यर्थः । अत्र प्रस्तुतसूर्यविशेषणमात्रसाम्यादप्रस्तुतप्रसाधकप्रतीतेः समासोक्तिरलंकारः
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.