परेभर्तुर्महिषोऽमुना धनु-
र्विधातुमुत्खातविषाणमण्डलः ।
हृतेऽपिभारे महतस्त्रपाभरा-
दुवाह दुःखेन भृशानृतं शिरः ॥

मल्लिनाथः परेतभर्तुरिति ॥ अमुना रावणेन धनुः शार्ङ्गं विधातुं निर्मातुमुत्खातमुत्पाटितं विषाणयोः शृङ्गयोर्मण्डलं वलयं यस्य स परेतभर्तुर्यमस्य महिषः । वाहनभूत इति भावः । भारे विषाणरूपे । भृञो घञ् । हृतेऽपि महतस्त्रपैव भरस्तस्मात् । ततोऽपि दुर्भरादिति भावः । भृधातोः कैयादिकात् `ॠदोरप्` (अष्टाध्यायी ३.३.५७ ) इत्यप्प्रत्ययः । भृशमत्यर्थमानतं नम्रं शिरो दुःखेनोवाह वहति स्म । `असंयोगाल्लिट् कित्` (अष्टाध्यायी १.२.५ ) इति कित्त्वात् `वचिस्वपि-` (अष्टाध्यायी ६.१.१५ ) इत्यादिना संप्रसारणम् । हृतेऽपि भारे नतमिति विरोधः । तदनुप्राणिता चेयमवनतिहेतुत्वसाधर्म्यात् त्रपाभारत्वोत्प्रेक्षा
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
रे र्तु र्म हि षो ऽमु ना नु
र्वि धा तु मु त्खा वि षा ण्ड लः
हृ ते ऽपि भा रे स्त्र पा रा
दु वा दुः खे भृ शा नृ तं शि रः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.