Loading data... On slow networks this could take a few minutes.
100%

रणेषु तस्य प्रहिताः प्रचेतसा
सरोषहुङ्कारपराङ्मुखीकृताः ।
प्रहर्तुरेवोरगराजरज्जवो
जवेन कण्ठं सभयाः प्रपेदिरे ॥

मल्लिनाथः रणेष्विति ॥ किंच रणेषु प्रचेतसा वरुणेन प्रहिताः प्रयुक्ता उरगराजा महासर्पास्ते रज्जव इव उरगराजरज्जवः । नागपाशा इत्यर्थः । तस्य रावणस्य सरोषहुंकारेण पराङ्मुखीकृता व्यावर्तिताः । अत एव सभयाः सत्यः जवेन वेगेन प्रहर्तुः प्रयोक्तुः प्रचेतस एव कण्ठं प्रपेदिरे प्राप्ताः । अत्र परहिंसाप्रयुक्तस्यायुधस्य वैपरीत्येन स्वकण्ठग्रहणादनर्थोत्पत्तिरूपो विषमालंकारः । `विरुद्धकार्यस्योत्पत्तिर्यत्रानर्थस्य वा भवेत्` इति लक्षणात्
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
णे षु स्य प्र हि ताः प्र चे सा
रो हु ङ्का रा ङ्मु खी कृ ताः
प्र र्तु रे वो रा ज्ज वो
वे ण्ठं याः प्र पे दि रे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.