बिभिन्नशङ्खः कलुषीभवन्मुहु-
र्मदेन दन्तीव मनुष्यधर्मणः ।
निरस्तघांभीर्यमपास्तपुष्पकं
प्रकम्पयामास न मानसं न सः ॥

मल्लिनाथः विभिन्नेति ॥ स रावणो मदेन दर्पण, इभदानेन च । `मदो दर्पेभदानयोः` इति विश्वः । दन्तीव गज इव विभिन्नो विघट्टितः शङ्खो निधिभेदः, कम्बुश्च येन सः सन्। `शङ्खो निध्यन्तरे कम्बुललाटास्थिनखेषु च` इति विश्वः । अकलुषं कलुषं क्षुब्धमाविलं च भवत् कलुषीभवत् । निरस्तं गाम्भीर्यमविकारित्वं, अगाधत्वं च यस्य तत् । अपास्तानि पुष्पाणि, पुष्पकं विमानं च यस्मात्तत् । पुष्पपक्षे वैभाषिक: कप्प्रत्ययः । मनुष्यस्येव धर्मः श्मश्रुलत्वादिर्यस्येति स्वामी । तस्य मनुष्यधर्मणः । `धर्मादनिच् केवलात्` (अष्टाध्यायी ५.४.१२४ ) इत्यनिच् । मानसं चित्तं, तदीयं सरश्च । `मानसं सरसि स्वान्ते` इति विश्वः । मुहुर्न कम्पयामास न क्षोभयामासेति न, किंतु कम्पयामासैवेत्यर्थः । कुबेरस्य महामहिमतया संभाविताप्रकम्पित्वनिवारणाय नञ्द्वयम् । `संभाव्यनिषेधनिवर्तने नञ्द्वयम्` इति वामनः । अत्र दन्तिरावणयोः प्रकृताप्रकृतयोः श्लेषः
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
बि भि न्न ङ्खः लु षी न्मु हु
र्म दे न्ती नु ष्य र्म णः
नि स्त घां भी र्य पा स्त पु ष्प कं
प्र म्प या मा मा सं सः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.