Loading data... On slow networks this could take a few minutes.
100%

बृहच्छलानिष्ठुरकण्ठघट्टना-
विकीर्णलोलाग्निकणं सुरद्विषः ।
जगत्प्रभोरप्रसिहिष्णु वैष्णवं
न चक्रमस्याक्रमताधिकन्धरं ॥

मल्लिनाथः बृहच्छिलेति ॥ बृहति शिलेव निष्ठुरे कण्ठे घट्टनादभिघाताद्विकीर्णा विक्षिप्ताः लोलाश्चाग्निकणाः स्फुलिङ्गा यस्य तत् । अत एवाप्रसहिष्णु अनभिभावकम् । `प्रसहनमभिभवः` इति वृत्तिकारः । `अलंकृञ्-` (अष्टाध्यायी ३.२.१३६ ) इत्यादिना इष्णुच् । वैष्णवं चक्रं सुदर्शनं जगत्प्रभोः सकललोकैकस्वामिनः । अस्य सुरद्विषो रावणस्य कंधरायामधि अधिकंधरमधिग्रीवम् । विभक्त्यर्थेऽव्ययीभावः । `अव्ययीभावश्च` (अष्टाध्यायी २.४.१८ ) इति नपुंसकत्वात् `ह्रस्वो नपुंसके प्रातिपदिकस्य` (अष्टाध्यायी १.२.४७ ) इति ह्रस्वत्वम् । `कण्ठो गलोऽथ ग्रीवायां शिरोधिः कंधरेत्यपि` इत्यमरः । नाक्रमताप्रतिहतं न क्रमते स्म न प्रवर्तते स्म । किंतु प्रतिहतमेवेत्यर्थः । `वृत्तिसर्गतायनेषु क्रमः` (१॥३॥३८) इति वृत्तावात्मनेपदम् । वृत्तिरप्रतिबन्धः
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
बृ च्छ ला नि ष्ठु ण्ठ ट्ट ना
वि की र्ण लो ला ग्नि णं सु द्वि षः
त्प्र भो प्र सि हि ष्णु वै ष्ण वं
क्र स्या क्र ता धि न्ध रं
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.