Loading data... On slow networks this could take a few minutes.
100%

अशुक्नुवन्सोढुमधीरलोचनः
सहस्ररश्मेरिव यस्य दर्शनम् ।
प्रविश्य हेमाद्रिगुहागृहान्तरं
निनाय बिभ्यद्दिवसानि कौशिकः ॥

मल्लिनाथः अशक्नुवन्निति ॥ अधीरलोचनोऽस्थिरदृष्टिः कौशिको महेन्द्रः, उलूकश्च । `महेन्द्रगुग्गुलूलूकव्यालग्राहिषु कौशिकः` इत्यमरः । सहस्ररश्मेः सूर्यस्येव यस्य रावणस्य विक्रमकर्मणो दर्शनं सोढुमशक्नुवन् । हेमाद्रेर्गुहैव गृहं तस्यान्तरं प्रविश्य बिभ्यत्तत्रापि वेपमान एव । बिभीतेः शतरि `नाभ्यस्ताच्छतुः` (अष्टाध्यायी ७.१.७८ ) इति नुमभावः । दिवसानि वासराणि निनाय । `वा तु क्लीबे दिवसवासरौ` इत्यमरः । यथा पेचकः सूर्योदये भीतः सन् तिष्ठति तथा सोऽपीति भावः । कौशिक इत्यभिधायाः प्रस्तुतैकगोचरत्वेनोभयश्लेषेऽपि विशेष्यश्लेषासंभवात् उलूकविषयशब्दशक्तिमूलो ध्वनिः । सहस्ररश्मेरिवेत्युपमाननिर्वाहकत्वाद्वाच्यसिद्ध्यङ्गम्
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
शु क्नु न्सो ढु धी लो नः
स्र श्मे रि स्य र्श नम्
प्र वि श्य हे मा द्रि गु हा गृ हा न्त रं
नि ना बि भ्य द्दि सा नि कौ शि कः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.