Loading data... On slow networks this could take a few minutes.
100%

सलीलयातानि न भर्तुरभ्रमो-
र्न चित्रमुच्चैश्रवसः पदक्रमम् ।
अनुद्रुतः संयति येन केवलं
बलस्य शत्रुः प्रशशंस शीघ्रताम् ॥

मल्लिनाथः पाठा०-१ `वशी`. २०महर्निशं`. सलीलेति ॥ संयति युद्धे । `समुदायः स्त्रियां संयत्समित्याजिसमिद्युधः इत्यमरः । येन रावणेन अनुद्रुतोऽनुधावितः बलस्य शत्रुरिन्द्रः अभ्रमोर्भर्तुरैरावतस्य सलीलयातानि सभङ्गीकगमनानि न प्रशशंस । तथा उच्चैःश्रवसः स्वाश्वस्य चित्रं नानाविधं पदक्रमं पादविक्षेपम् । अर्धपुलायितादिगतिविशेषमित्यर्थः । न प्रशशंस । किंतु केवलं शीघ्रतां शीघ्रगामित्वमेव प्रशशंस । अन्यथा शीघ्रं मामास्कन्द्य ग्रहीष्यतीति भयादिति भावः
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
ली या ता नि र्तु भ्र मो
र्न चि त्र मु च्चै श्र सः क्र मम्
नु द्रु तः सं ति ये के लं
स्य त्रुः प्र शं शी घ्र ताम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.