Loading data... On slow networks this could take a few minutes.
100%

पुरीमवस्कन्द लुनीहि नन्दनं
मुषाण रत्नानि हरामराङ्गनाः ।
विगृह्य चक्रे नमुचिद्विषा बली
य इत्थमस्वास्थ्यमहर्दिवं दिवः ॥

मल्लिनाथः पुरीमिति ॥ यो बली बलवान् रावणो नमुचिद्विषा इन्द्रेण विगृह्य विरुध्य पुरीममरावतीमवस्कन्द अवरुरोध । नन्दनमिन्द्रवनम् , `नन्दनं वनम्` इत्यमरः । लुनीहि चिच्छेद । `ई हल्यघोः` (अष्टाध्यायी ६.४.११३ ) इतीकारः । रत्नानि श्रेष्ठवस्तूनि मणीन् वा । `रत्नं श्रेष्ठे मणावपि` इति विश्वः। मुषाण मुमोष । `मुष स्तेये` । `हलः श्नः शानज्झौ` (३।११८३) इति श्नः शानजादेशः। अमराङ्गनाः हर जहार । सर्वत्र पौनःपुन्येनेत्यर्थः। इत्थमनेन प्रकारेण अहनि च दिवा चाहर्दिवम् । अहन्यहनीत्यर्थः । `अचतुर-` (अष्टाध्यायी ५.४.७७ ) इत्यादिना सप्तम्यर्थवृत्तौ द्वन्द्वे समासान्तो निपातः । दिवः स्वर्गस्यास्वास्थ्यमुपद्रवं चक्रे । अत्रावस्कन्देत्यादौ `क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः` (अष्टाध्यायी ३.४.२ ) इत्यनुवृत्तौ `समुच्चयेऽन्यतरस्याम्` (अष्टाध्यायी ३.४.३ ) इति विकल्पेन कालसामान्ये लोट् । तस्य यथोपग्रहं सर्वतिङादेशो हिस्वौ च । प्रकरणादिना त्वर्थविशेषावसानम् । `अतो हेः` (अष्टाध्यायी ६.४.१०५ ) इति यथायोग्यं हिलुक् । पौनःपुन्यं भृशार्थो वा क्रियासमभिहारः । अवस्कन्दनादिक्रियाविशेषाणां समुच्चयः क्रियासमभिहारः । तत्सामान्यस्य करोतेः `समुच्चये सामान्यवचनस्य` (अष्टाध्यायी ३.४.५ ) इत्यनुप्रयोगः चक्रे इति । `अत्र तिङ्वैचित्र्यात् सौशब्दाख्यो गुणः` । `सुपां तिङां परावृत्तिः सौशब्दम्` इति लक्षणात् । समुच्चयश्चालंकारः
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
पु री स्क न्द लु नी हि न्द नं
मु षा त्ना नि रा रा ङ्ग नाः
वि गृ ह्य क्रे मु चि द्वि षा ली
त्थ स्वा स्थ्य र्दि वं दि वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.